|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.14. अध्यायः 014
Mahabharata - Vana Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति साल्वेन युद्धस् स्वस्यानागमनहेतुत्वकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
युधिष्ठिर उवाच। 3-14-0x(1826)(16259)
असान्निध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन।
क्व चासीद्विप्रवासस्ते किंचाकार्षीः प्रवासतः ॥ 3-14-1(16260)
कृष्ण उवाच। 3-14-2x(1827)
साल्वस्य नगरं सौभं गतोऽहं भरतर्षभ।
निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम् ॥ 3-14-2(16261)
महातेजा महांवाहुर्यः स राजा महायशाः।
दमघोषात्मजो वीरः शिशुपालो मया हतः ॥ 3-14-3(16262)
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति।
स रोषवशमापन्नो नामृष्यत दुरात्मवान् ॥ 3-14-4(16263)
श्रुत्वा तं निहतं साल्वस्तीव्ररोषसमन्वितः।
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ॥ 3-14-5(16264)
स तत्र युद्धमकरोद्बालकैर्वृष्णिपुङ्गवैः।
निवृत्तः कामगं सौभमारुह्यैव नृशंसवत् ॥ 3-14-6(16265)
`चिरजीवी नृपः सोऽपि प्रसादात्पद्मजन्मनः।'
ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा।
पुरोद्यानानि सर्वाणि भेदयामास दुर्भतिः ॥ 3-14-7(16266)
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः।
वासुदेवः स मन्दात्मा वसुदेवसुतो गतः ॥ 3-14-8(16267)
तस्य युद्धार्थिनो दर्पं युद्धेनाशयिताऽस्म्यहम्।
आनर्ताः सत्यमाख्यात तत्र गन्ताऽस्मि यत्र सः ॥ 3-14-9(16268)
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्।
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे । 3-14-10(16269)
क्वासौ क्वासाविति पुनस्तत्रतत्र प्रधावति।
मया सह रणे योद्धुं काङ्क्षमाणः स सौभराट् ॥ 3-14-11(16270)
अद्यतं पापकर्माणं क्षुद्रं विश्वासघातिनम्।
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ॥ 3-14-12(16271)
मम पापस्वभावेन भ्राता येन निपातितः।
शिशुपालो महीपालस्तं वधिष्ये महीतले ॥ 3-14-13(16272)
भ्राता बालश्च राजा च न च संग्रामकोविदः।
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम्। 3-14-14(16273)
एकमादि महाराज विलप्यदिवमास्थितः।
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ॥ 3-14-15(16274)
तमश्रौषमहं गत्वा यथा वृत्तः स दुर्मतिः।
मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः ॥ 3-14-16(16275)
ततोऽहमपि कौरव्य रोषव्याकुललोचनः।
निश्चित्य मनसा राजन्वधायास्य मनो दधे ॥ 3-14-17(16276)
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव।
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥ 3-14-18(16277)
ततः सौभवधायाहं प्रतस्थे पृथिवीपते।
स मया सागरावर्ते दृष्ट आसीत्परीप्सता ॥ 3-14-19(16278)
ततः प्रध्माप्य जलजं पाञ्चजन्यमहे नृप।
आहूय साल्वं समरे युद्धाय समवस्थितः ॥ 3-14-20(16279)
तन्मुहूर्तमभूद्युद्धं तत्र मे दानवैः सह।
शवीभूताश्च मे सर्वे भूतले च निपातिताः ॥ 3-14-21(16280)
एतत्कार्यं महाबाहो येनाहं नागमं तदा।
श्रुत्वैव हास्तिनपुरे द्यूतं चाविनयोत्थितम्।
द्रुतमागतवान्युष्मान्द्रष्टुकामः सुदुःखितान् ॥ 3-14-22(16281)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुर्दशोऽष्यायः ॥ 14 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-14-6 सौभं सुष्ठु भान्ति ते सुभाः काञ्चनादयो धातवस्तज्जम ॥ 3-14-9 आख्यात कथयत ॥ 3-14-16 मार्तिकावतकः एतन्नामकदेशवासी ॥ 3-14-18 अवलेपं गर्वं ज्ञात्वेति शेषः ॥ 3-14-19 सागरस्य आसमन्ताद्वर्तो वर्तनं यस्मिन्सागरद्वीपे इत्यर्थः ॥ 3-14-20 जलजं शङ्खम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|